सूत्रम्
आयुधाच्छ च॥ ४।४।१४
काशिका-वृत्तिः
आयुधच् छ च ४।४।१४
आयुधशब्दात् छ प्रत्ययो भवति, चकाराट् ठंश्च, जीवति इत्येतस्मिन् विषये। आयुधेन जीर्वात आयुधीयः, आयुधिकः।
बाल-मनोरमा
आयुधाच्छ च १५४३, ४।४।१४
आयुधाच्छ च। जीवतीत्यर्थे तृतीयान्तादायुधशब्दाच्छः स्याट्ठन् चेत्यर्थः।
तत्त्व-बोधिनी
आयुधाच्छ च ११९७, ४।४।१४
आयुधाच्छ छ। आयुध्यन्ते अनेनेति आयुधं। "घञर्थे कविधान"मिति कः।